Posts

Showing posts from June, 2020

इत्संज्ञा तस्य कार्यं च।

इत्संज्ञा तस्याः कार्यं च। It sangya aur uske karya.  इत् संज्ञा के कार्य। पाणिनेः व्याकरणे सूत्रं षड्विधं भवति - संज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते।। प्रकारः सप्तमो ज्ञेयः निषेध इति चापरः।। तत्रैव संज्ञासूत्रम् एकम्। तासु संज्ञासु एका  इत्संज्ञा । इत्संज्ञाविधायकानि सूत्राणि अष्टाध्याय्याः प्रथमाध्यायस्य तृतीयपादे पठितानि सन्ति। तत्र इत्संज्ञाबोधनाय सप्तसूत्राण्युक्तानि तेषु एकं निषेधसूत्रं ततश्च अष्टमेन तस्य लोप इत्यनेन तस्य इत्संज्ञकस्य लोपो भवतीति सूचितम्। लोपफलकत्वादस्य एति गच्छतीति इण्धातोः क्विपि व्युत्पादनं कर्त्तुं शक्यते। सर्वाणि इत्संज्ञाविधायकानि सूत्राण्यत्र क्रमशः प्रस्तूयन्ते। सूत्रम्।सूत्रसंख्या १. उपदेशेऽजनुनासिक इत्।१.३.२ २. हलन्त्यम्।१.३.३ ३. न विभक्तौ तुस्माः।१.३.४ ४. आदिर्ञिटुडवः।१.३.५ ५. षः प्रत्ययस्य।१.३.६ ६. चुटू।१.३.७ ७. लशक्वतद्धिते।१.३.८ तत्र प्रथमं १. उपदेशेऽजनुनासिक इत्। पदच्छेदः -  उपदेशे ७/१।। अनुनासिकः १/१।। इत् १/१।। अर्थः  - उपदेशे अनुनासिकः स्वरः इत्संज्ञकः भवति । व्...