इत्संज्ञा तस्य कार्यं च।


इत्संज्ञा तस्याः कार्यं च।

It sangya aur uske karya.

 इत् संज्ञा के कार्य।

पाणिनेः व्याकरणे सूत्रं षड्विधं भवति -
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते।।
प्रकारः सप्तमो ज्ञेयः निषेध इति चापरः।।
तत्रैव संज्ञासूत्रम् एकम्। तासु संज्ञासु एका  इत्संज्ञा । इत्संज्ञाविधायकानि सूत्राणि अष्टाध्याय्याः प्रथमाध्यायस्य तृतीयपादे पठितानि सन्ति। तत्र इत्संज्ञाबोधनाय सप्तसूत्राण्युक्तानि तेषु एकं निषेधसूत्रं ततश्च अष्टमेन तस्य लोप इत्यनेन तस्य इत्संज्ञकस्य लोपो भवतीति सूचितम्। लोपफलकत्वादस्य एति गच्छतीति इण्धातोः क्विपि व्युत्पादनं कर्त्तुं शक्यते। सर्वाणि इत्संज्ञाविधायकानि सूत्राण्यत्र क्रमशः प्रस्तूयन्ते।
सूत्रम्।सूत्रसंख्या

१. उपदेशेऽजनुनासिक इत्।१.३.२


२. हलन्त्यम्।१.३.३
३. न विभक्तौ तुस्माः।१.३.४
४. आदिर्ञिटुडवः।१.३.५
५. षः प्रत्ययस्य।१.३.६
६. चुटू।१.३.७
७. लशक्वतद्धिते।१.३.८



तत्र प्रथमं

१. उपदेशेऽजनुनासिक इत्।

पदच्छेदः -  उपदेशे ७/१।। अनुनासिकः १/१।। इत् १/१।।

अर्थः  - उपदेशे अनुनासिकः स्वरः इत्संज्ञकः भवति ।
व्याख्या -
उपदेशः =     "उपदेशः आद्योच्चारणम्" ।
आद्योच्चारणम् - आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतं सः उपदेशः ।
 आदिऋषिभिः कस्य कस्य उच्चारणं कृतमिति जिज्ञासायां प्रत्याहाराणाम्, प्रत्ययानाम्, आदेशानाम्, आगमानाम्, धातूनाम्, प्रातिपदिकानाम्, निपातादीनाञ्च । सर्वमिदमुच्चारणं पाणिनेः पञ्चसु ग्रन्थेषु कृतमस्ति ते च -
१.अष्टाध्यायीसूत्रपाठः, २. धातुपाठः, ३. गणपाठः, ४. उणादिकोषः, ५. लिङ्गानुशासनम्। अत एतेषु   उच्चारिताः  उपदेशसंज्ञकाः भवन्ति ।
एवं उपदेशे यदि कोऽपि स्वरः अनुनासिको भवति तर्हि तस्य संज्ञा इत् इति भवति।
उपदेशेषु कः स्वरः अनुनासिकः इदं भाष्यादेव ज्ञायते । अतएव कौमुद्याम् "प्रतिज्ञा अनुनासिक्याः पाणिनीयाः" इति उक्तमस्ति ।
उदाहरणम् -
१. "सुँ" इत्यस्मिन् प्रत्यये सकारात् परः उकारोऽनुनासिकः अतः अस्य उकारस्य इत्संज्ञा भवति ।
२. "तुमुँन्" प्रत्यये मकारोत्तरः उकारः अनुनासिकः अतः तस्य इत्संज्ञा।
३. "गम्ऌँ" अस्मिन्  धातौ ऌकारः अनुनासिकः अतः तस्य इत्संज्ञा।
४. "डुपचँष्" इत्यत्र चकारात् परः यः अकारः, सः अनुनासिकः अतः तस्य इत्संज्ञा।
५. "भू" इत्यत्र कोऽपि अनुनासिकः स्वरः नास्ति । अतः अत्र कस्यापि इत्संज्ञा न भवति ।
६. टुओँश्वीँ अस्मिन् धातौ ओकार इकारश्च अनुनासिकः अतः उभयोः इत्संज्ञा भवति ।
७. लँण् प्रत्याहारे अकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।
इत्संज्ञायाः कार्यम् (फलम्) -  "या  या संज्ञा सा सा फलवती "  इति नियमात् प्रत्येकं संज्ञायाः प्रयोजनं भवत्येव अतः अनेन सूत्रेणापि या संज्ञा कृता तस्याः कार्याणि बहूनि सन्ति अत्र उदाहरणमेकं दीयते।
तस्य लोपः। १.३.९।।
पदच्छेदः - तस्य ६/१।। लोपः १/१।।
अर्थः - तस्य इत्संज्ञकस्य लोपः (अदर्शनम्) स्यात्।
उदाहरणं यथा -  "राम सुँ" इत्यत्र उकारः इत्संज्ञकः अनुनासिकत्वात् अतः तस्य लोपो भूत्वा  "राम स्"  भवति पुनः रुत्वविसर्गं कृत्वा रामः सिद्ध्यति।


२. हलन्त्यम्।

पदच्छेदः - हल् १/१, अन्त्यम् १/१।।
समासः - हस्य ल् हल् षष्ठीतत्पुरुषः।। हल् च हल् च हल् सरूपाणाम एकशेष एकविभक्तौ(१.२.६४) इत्यनेन एकशेषः, जातिविवक्षायामेकवचनञ्च, अनया रीत्या हल् प्रत्याहारो निष्पद्यते।।
अनुवृत्तिः - उपदेशे , इत् ।
अर्थः - उपदेशे अन्त्यम् हल् इत् स्यात्। अर्थात् उपदेशेषु अन्तिमव्यञ्जनस्य वर्णस्य इत्संज्ञा भवति । यथा -
उदाहरणम् -
१) शप् अस्य अन्तिमः पकारः इत्संज्ञकः ।
२) णिच् अस्य अन्तिमः चकारः इत्संज्ञकः ।
३) नुम् अस्य अन्तिमः मकारः इत्संज्ञकः ।
४) उञ् इत्यस्य अन्तिमः ञकारः इत्संज्ञकः ।

कार्यम् -    अचो ञ्णिति।।७.२.११५।।
  पदच्छेदः -  अचः ६/१, ञ्णिति ७/१।।
अनुवृत्तिः -  वृद्धिः (७|२|११४)।
अधिकारः -  अङ्गस्य(६|४|१)।
अर्थः -   अचः अङ्गस्य ञ्णिति वृद्धिः जायते।  अर्थात्
अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये च परे वृद्धिर्भवति ।
यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धिरादेशो जायते ।

उदाहरणं यथा-
       भू + घञ्               [भावे ३|३|१८ इति घञ्-प्रत्ययः]
→  भौ + अ।        [  अत्र ञकारस्य हलन्त्यत्वात् इत् ,  णित्त्वाच्च अचो
                             ञ्णिति इत्यनेन  ऊकारस्य वृद्धिरादेशः  औकारः]
→    भाव            [एचोऽयवायावः ६|१|७८ इति आव्-आदेशः]

३. निषेधः - न विभक्तौ तुस्माः (१.३.४)।
पदच्छेदः- न (अव्ययपदम्), विभक्तौ ७/१, तुस्माः१/३।।
अनुवृत्तिः - हल्, उपदेशे , इत्।
अर्थः -  विभक्तौ वर्तमानानामन्त्यानां तवर्गसकारमकाराणामित्संज्ञा न भवति।
पूर्वेणान्त्यं हल् इत्संज्ञकं प्राप्तमनेन प्रतिषिध्यते।
उदाहरणम् -
रामात् वृक्षात् इति तकारस्य।
सकारः - जस्, शस्, भिस्, ङस्, ओस्।
 मकारः - अम्, आम् ।।
कार्यम् -  ससजुषो रुः। ८.२.६६।।
राम जस् इत्यत्र सः प्रकृतसूत्रेण अनित्त्वात् सः रुत्वसिर्गं कृत्वा रामः सिद्ध्यति।

४. आदिर्ञिटुडवः।। १.३.५।।

पदच्छेदः - आदिः १/१, ञिटुडवः १/३।।
समासः -  ञिश्च टुश्च डुश्च ञिटुडवः इतरेतरयोगद्वन्द्वः।।
अनुवृत्तिः - उपदेशे, इत्।
अर्थः - उपदेशे आदौ वर्त्तमानानां ञि, टु, डु इत्येतेषामित्संज्ञा भवति।।
उदाहरणम् -
इत्संज्ञकः "ञि" = ञिमिदाँ, ञिक्ष्विदाँ, ञित्वराँ, ... ।
इत्संज्ञकः "टु" = टुक्षु, टुनदीँ, टुदु, ... ।
इत्संज्ञकः "डु" = डुकृञ्, डुपचँष्, डुलभँष्, ... ।
 कार्यम् -  ट्वितोऽथुच् ।। ३.३.८९।।
पदच्छेदः - टि्वतः ५/१, अथुच् १/१।।
अनुवृत्तिः - कृत् ।
अधिकारः -  प्रत्ययः३|१|१ , परश्च३|१|२ , आद्युदात्तश्च३|१|३ , धातोः३|१|९१ ।।
अर्थः - टु इत् यस्य, तस्मात् ट्वितो धातोः अथुच् प्रत्ययो भवति भावादौ। टुवेपृ कम्पने वेपथुः। टुओश्वि गतिवृद्ध्योः श्वयथुः। टुक्षु शब्दे क्षवथुः।
उदाहरणम् -
वेपथुः
टुवेपृ (कम्पने  )   अस्मिन् टुवेपृधातौ टु इत्यस्य इत्संज्ञा अस्ति अतः प्रकृत सूत्रेण अथुच् प्रत्यये जाते
वेप् अथुच्  सु भूत्वा वेपथुः सिध्यति।

५. षः प्रत्ययस्य।।१.३.६।।

पदच्छेदः - षः १/१, प्रत्ययस्य ६/१।।
अनुवृत्तिः - आदिः , उपदेशे , इत् ।
अर्थः -  उपदेशे प्रत्ययस्य आद्यस्थः षकारः इत्संज्ञकः भवति । अर्थात् -
प्रत्ययस्य औपदेशिक-अवस्थायाम् प्रथमः वर्णः यदि "ष्" अस्ति, तर्हि तस्य अनेन सूत्रेण इत्संज्ञा भवति ।
 उदाहरणम् -
ष्यङ् , ष्वुन्, ष्फक् - एतेषु प्रत्ययेषु षकारस्य इत्संज्ञा भवति ।

कार्यम् - षिद्गौरादिभ्यश्च ४.१.४१।।
पदच्छेदः -  षिद्गौरादिभ्यः ५/३ , च(अव्ययपदम्)।
अनुवृत्तिः -   ङीष् , अनुपसर्जनात्।
अधिकारः -  प्रत्ययः३|१|१ , परश्च३|१|२ , आद्युदात्तश्च३|१|३ , ङ्याप्प्रातिपदिकात्४|१|१ , स्त्रियाम्४|१|३ , अनुपसर्जनात्४|१|१४।।
अर्थः -  उपसर्जनभिन्नेभ्यः षित्-प्रत्ययान्तशब्देभ्यः तथा गौरादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितयम् ङीष्-प्रत्ययः भवति ।
ये शब्दाः षित्-प्रत्ययान्ताः सन्ति, तथा च ये शब्दाः गौरादिगणे निर्दिष्टाः सन्ति, तेषाम् विषये स्त्रीत्वं द्योतयितुम् "ङीष्" प्रत्ययः विधीयते ।
उदाहरणम् -
"नर्तक" अयं शब्दः "नृत्" धातोः "ष्वुन्" प्रत्यये कृते सिद्ध्यति । अयं प्रत्ययः षित्-प्रत्ययः अस्ति, अतः "नर्तक" अयं शब्दः षित्-प्रत्ययान्त-शब्दः अस्ति । अतः अस्य शब्दस्य स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् (४|१|४)  इत्यनेन टाप्-प्रत्यये प्राप्ते; तं बाधित्वा वर्तमानसूत्रेण ङीष्-प्रत्ययः विधीयते ।
नर्तक + ङीष् → नर्तकी ।

६. चुटू ।।१.३.७।।

पदच्छेदः -  चुटू १/२।।
अनुवृत्तिः - आदिः , प्रत्ययस्य,  उपदेशे , इत् ।
अर्थः - उपदेशे प्रत्ययस्य आद्यस्थाः चवर्गीयवर्णाः टवर्गीयवर्णाः च इत्संज्ञकाः भवन्ति । अर्थात् -
उपदेशस्थितौ प्रत्ययस्य प्रथमः वर्णः यदि चवर्गीयः वा टवर्गीयः, तर्हि तस्य अनेन सूत्रेण इत्संज्ञा भवति ।
उदाहरणम् -
चवर्गीयस्य उदाहरणानि - जस् (ज्-वर्णस्य इत्संज्ञा) , च्फ (च्-वर्णस्य इत्संज्ञा), ञ्य (ञ्-वर्णस्य इत्संज्ञा) ।
टवर्गीयस्य उदाहरणानि - टा (ट् -वर्णस्य इत्संज्ञा) , ण्वुल् (ण्-वर्णस्य इत्संज्ञा), ड (ड्-वर्णस्य इत्संज्ञा) ।

अत्र एकं वार्त्तिकम् ज्ञातव्यम् - इँर इत्संज्ञा वाच्या । इत्युक्ते, "इँर्" अस्य शब्दसमुहस्य इत्संज्ञा भवति । यथा - दृशिँर् (प्रेक्षणे) अस्मिन् धातोः "इँर्" इति शब्दसमूहस्य उपस्थितौ अनेन वार्त्तिकेन तस्य शब्दसमुहस्यैव इत्संज्ञा भवति । इँकारस्य रेफस्य वा भिन्नरूपेण इत्संज्ञा न कर्तव्या ।

कार्यम् -  अचो ञ्णिति।।७.२.११५।।
पदच्छेदः- अचः ६/१  , ञ्णिति ७/१।।
अनुवृत्तिः - वृद्धिः।
अधिकारः - अङ्गस्य।
 अर्थः -  अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।
यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धि-आदेशः जायते ।
उदाहरणम् -
नी + ण्वुल्             [ण्वुल्तृचौ ३|१|१३३ इति ण्वुल्-प्रत्ययः]
→ नै + वु।           [अत्र णकारस्य णित्त्वात् अचो ञ्णिति इत्यनेन सूत्रेण
                              वृद्धिः ऐकारः जातः।]
→ नै + अक         [युवोरनाकौ ७|१|१ इति वु-इत्यस्य अक-आदेशः]
→ नायक            [एचोऽयवायावः ६|१|७८ इति आय्-आदेशः]

७. लशक्वतद्धिते ।।१.३.८।।

पदच्छेदः - लशकु १/१ , अतद्धिते ७/१।।
अनुवृत्तिः -  आदिः,  प्रत्ययस्य , उपदेशे , इत्।।
अर्थः - उपदेशे अतद्धितस्य प्रत्ययस्य आदिः ल-श-कु इत्संज्ञको भवति। अर्थात् -
 तद्धितभिन्नप्रत्ययस्य औपदेशिक-अवस्थायाम् विद्यमानः आदिस्थः - (१) लकारः , (२) शकारः (३) कवर्गीयवर्णः इत्संज्ञकः भवति ।
यदि कश्चन प्रत्ययः तद्धितः नास्ति, अथ च तस्य औपदेशिकस्थितौ प्रथमः वर्णः ल् / श् / कवर्गीयः अस्ति, तर्हि तस्य अनेन सूत्रेण इत्संज्ञा भवति । यथा -
उदाहरणानि -
१) "ल्युट्" अयं कृत्-प्रत्ययः । अतः अस्य आदिवर्णः ल् इत्संज्ञकः ।
२) "शप्" अयं विकरणप्रत्ययः । अतः अस्य आदिवर्णः श् इत्संज्ञकः।
३) "क्त्वा" अयं कृत्-प्रत्ययः । अतः अस्य आदिवर्णः क् इत्संज्ञकः ।
४) "ङीष्" अयं स्त्रीप्रत्ययः । अतः अस्य आदिवर्णः ङ् इत्संज्ञकः ।
५) "लच्छ्" अयं तु तद्धितप्रत्ययः । अतः अस्य आदिवर्णः ल् इत्संज्ञकः न भवति ।
६) "कन्" अयमपि तद्धितप्रत्ययः । अतः अस्य आदिवर्णः क् इत्संज्ञकः न भवति ।

कार्यम् -  तिङ्शित्सार्वधातुकम्। ३.४.११३।।
पदच्छेदः -  तिङ्-शित् १/१ , सार्वधातुकम् १/१।।

अधिकारः-  प्रत्ययः३|१|१ , परश्च३|१|२ , आद्युदात्तश्च३|१|३ धातोः३|१|
अर्थः -  धातुभ्यः विहिताः तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति ।
उदाहरणम् -
शित्-प्रत्ययाः -
[विकरणप्रत्ययाः] शप्, श्यन्, श्नु, श, श्नम्, श्ना
[कृत्-प्रत्ययः] शतृ, शानच्, शानन्, चानश्, खश्, श, एश्, शध्यै, शध्यैन्
एतेषां प्रत्ययानां सार्वधातुकसंज्ञैव अनेन सूत्रेण इत्संज्ञायाः फलं सार्वधातुकस्य तु भिन्नमेव।
                               एवं अष्टाध्याय्यां पठितानि इत्संज्ञाविधायकानि सूत्राणि सोदाहरणं स्पष्टानि यद्यपि व्याकरणे इत्संज्ञाया कार्याणि अनेकानि सन्ति तथापि अत्र इत्संज्ञाविधायकसूत्रानुसारं समेषां सूत्राणामेकमेकं उदाहरणं सूत्रोल्लेखपूर्वकं दत्तं येन कार्यं (फलम्) स्पष्टं स्यात् । download pdf


facebook link आशुतोषः (8800186263)

Comments

Popular posts from this blog

माँ गै ! आय तोहर कोरा में सुतितौं। Maithili kavita maa gai aay tohar kora me sutitaun